|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.45. अध्यायः 045
Mahabharata - Adi Parva - Chapter Topics
जरत्कारोः स्वपितॄणां दर्शनं तद्भाषणं च॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-45-0x(217)(1942)
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः।
चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः॥ 1-45-1(1943)
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः।
तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह॥ 1-45-2(1944)
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः।
सं ददर्श पितॄन्गर्ते लम्बमानानधोमुखान्॥ 1-45-3(1945)
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान्।
तं तन्तुं च शनैराखुमाददानं बिलेशयम्॥ 1-45-4(1946)
निराहारान्कृशान्दीनान्गर्ते स्वत्राणमिच्छतः।
उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत॥ 1-45-5(1947)
के भवन्तोऽवलम्बन्ते वीरमस्तम्बमाश्रिताः।
दुर्बलं खादितैर्मूलैराखुना बिलवासिना॥ 1-45-6(1948)
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्।
तद्भप्ययं शनैराखुरादत्ते दशनैः शितैः॥ 1-45-7(1949)
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव।
ततस्तु पतितारोऽत्र गर्ते व्यक्तमधोमुखाः॥ 1-45-8(1950)
अत्र मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्।
कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः॥ 1-45-9(1951)
तपसोऽस्य चतुर्थेन तृतीयेनाथ वा पुनः।
अर्धेन वापि निस्तर्तुमापदं ब्रूत मा चिरम्॥ 1-45-10(1952)
अथवापि समग्रेण तरन्तु तपसा मम।
भवन्तः सर्व एवेह काममेवं विधीयताम्॥ 1-45-11(1953)
पितर ऊचुः। 1-45-12x(218)
कुतो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छसि।
न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम्॥ 1-45-12(1954)
अस्ति नस्तात तपसः फलं प्रवदतां वर।
संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ॥ 1-45-13(1955)
सन्तानं हि परो धर्मं एवमाह पितामहः।
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै॥ 1-45-14(1956)
येन त्वां नाभिजानीमो लोके विख्यातपौरुषम्।
वृद्धो भवान्महाभागोयोनः शोच्यान्सुदुःखितान॥ 1-45-15(1957)
शोचते चैव कारुण्याच्छृणु ये वै वयं द्विज।
यायावरा नाम वयमृषयः संशितव्रताः॥ 1-45-16(1958)
लोकात्पुम्यादिह भ्रष्टाः सन्तानप्रक्षयान्मुने।
प्रणष्टं नस्तपस्तीव्रं न हि नस्तन्तुरस्ति वै॥ 1-45-17(1959)
अस्तित्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा।
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः॥ 1-45-18(1960)
जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः।
नियतात्मा महात्मा च सुव्रतः सुमहातपाः॥ 1-45-19(1961)
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम्।
न तस्य भार्या पुत्रो वा बान्धवो वाऽस्ति कश्चन॥ 1-45-20(1962)
तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत्।
स वक्तव्यस्त्वया दृष्टो ह्यस्माकं नाथवत्तया॥ 1-45-21(1963)
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः।
साधु दारान्कुरुष्वेति प्रजायस्वेति चाभि भोः॥ 1-45-22(1964)
कुलतन्तुर्हि नः शिष्टः स एकैकस्तपोधन।
यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रयम्॥ 1-45-23(1965)
एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः।
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः॥ 1-45-24(1966)
एते नस्तन्तवस्तात कालेन परिभक्षिताः।
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम्॥ 1-45-25(1967)
यत्र लम्बामहे गर्ते सोऽप्येकस्तप आस्थितः।
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः॥ 1-45-26(1968)
स तं तपोरतं मन्दं शनैः क्षपयते तुदन्।
जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम्॥ 1-45-27(1969)
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम।
छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः॥ 1-45-28(1970)
अधः प्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा।
अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः॥ 1-45-29(1971)
छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः।
तपो वाऽप्यथ चा यज्ञो यच्चान्यत्पावनं महत्॥ 1-45-30(1972)
तत्सर्वं न समं तात संतत्येति सतां मतम्।
स तात दृष्ट्वा ब्रूयास्तं जरत्कारुं तपोधन॥ 1-45-31(1973)
यथा दृष्टमिदं चात्र त्वयाऽऽख्येयमशेषतः।
यथा दारान्प्रकुर्यात्स पुत्रानुत्पादयेद्यथा॥ 1-45-32(1974)
वा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया।
बान्धवानां हितस्येह यथा चात्मकुलं तथा॥ 1-45-33(1975)
कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम।
श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति॥ ॥ 1-45-34(1976)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चचत्वारिंशोऽध्यायः॥ 45 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-45-5 स्वत्राणं स्वरक्षाम्॥ 1-45-8 पतितारः पतिष्यथा॥ 1-45-12 एतत् अस्मदीयं कृच्छ्रं व्यपोहितुं अपनेतुम्॥ पञ्चचत्वारिंशोऽध्यायः॥ 45 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|